।। श्रीगणपतिस्तोत्रम् ।।
।। श्रीगणेशाय नमः ।। नारद उवाच ।।
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धिये ।।
प्रथमं वक्रतुंडं च एकदन्तं व्दितीयकम् ।।
तृतीयं कृष्णपिड़गाक्षं गजवकस्त्रं चतुर्थकम् ।।
लंबोदरं पंचमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्ठमम् ।।
नवमं भालचंद्रं च दशमं तु विनायकम्।
एकादशं गणपतिं द्वादशं तु गजाननम् ।।
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः।
न च विघ्न भयं तस्य सर्वसिद्धिकरं प्रभो ।।
विद्यार्थी लभते विद्या धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ।।
जपेद् गणपतिस्तोत्रम् षड्भिर्मासैःफलं लभेत् ।
संवत्सरेण सिध्दीं च लभते नात्र संशयः ।।
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ।।
इति श्रीनारदपुराणे संकटनाशनस्तोत्रं संपूर्णम् ।।
संदर्भ :- तरुण भारत गणेशोस्तव आरती संग्रह ( ७-९-२००५ )

No comments:
Post a Comment